Table Of Contentडु
अ[द्वितीय ो भागः]
द्वितीयखण्डम्
व्याख्याचतुष्टयोपेतम्
कुलपतेः प्रो. राममूर्तिशर्मणः प्रस्तावनया समलङ्कृतम्
सम्पादकः
डॉ, जानकीप्रसादद्विवेदी
SARASVATIBHAVANA-GRANTHAMALA
[ Vol. 135]
। Tह ै| N Ty क ॥
KATANTRAVYAKARANA
ह ,OF
ACARYA SARVAVARMA
[PART-TWO]
[VOLUME-2]
with four Commentaries
'VRTTT & 'TIKA
ह By
SRI DURGA SINGH
'KATANTRAVRTTIPANJIKA
छ 07 By
SRITRILOCANADASA
'KALAPACANDRA'
By
KAVIRAJA SUSENASARMA
'SAMIKSA'
By Editor
FOREWORD BY
PROF. RAMMURTISHARMA
VICE-CHANCELLOR
EDITED BY
DR. JANAKIPRASADA DWIVEDI
Reader, Sanskrit Department
Central Institute of Higher Tibetan Studies
(Deemed University) Sarnath, Varanasi
Research Publication 577927959-. 1$5छ९:81-7270-005-9 (४.९)
Director, Research Institute, ISBN :81-7270-006-7 (Set)
Sampurnanand Sanskrit University
Varanasi |
(1
Published by —
Dr. Harish Chandra Mani Tripathi
Director, Publication Institute
Sampurnanand Sanskrit University
Varanasi-221 002
का
Available at —
Sales Department, रक
Sampurnanand Sanskrit University
Varanasi-221 002
[_]
First Edition, 500 Copies
Price: Rs. 600.00
Printed by —
Anand Printing Press
C 27/170-A, Jagatganj
Varanasi — 221 002.
_ सरस्वतीभवन - ग्रन्थमाला
[१३५]
आचार्यशर्ववर्मप्रणीतं
कातच्त्र्याकरणम्
[ दितीयो भागः |
(द्वितीयखण्डप्)
शीदुर्गसिंहकृताभ्यां कातन्त्रवृत्ति-रीकाभ्यां
श्रीमत्रिलोचनदासकृतया “कातन्त्रवृत्तिपञ्जिका'-टीकया
कविराजसुषेणशर्मकृतया *कलाषचन्द्र'-रीकया
सम्पादकीयसमीक्षया
कुलपतेः प्रो. राममूर्तिशर्मणः प्रस्तावनया च समलङ्कृतम्
सम्पादकः
डॉ० जानकीप्रसादद्विवेदः
उपाचार्यः, संस्कृतविभागे
केन्द्रीय-उच्च-तिब्बतीशिक्षा-संस्थानम्
सारनाथः, वाराणसी
वाराणस्याम्
२०५६ तमे वैक्रमाब्दे १९२१ तमे शकाब्दे १९९९ तमे खैस्ताब्दे
अअननुुससनन््धधााननपप््ररककााशशननपपरर्य्वयेवक््षष कः I1S5B8N७ :: 8811--77227700--000056--97 ((५S०e.t)1 , र.)
निदेशकः, अनुसन्धानसंस्थानस्य
सम्पू्णनिन्द-संस्कृत-विश्वविद्यालये
वाराणसी ।
(_]
प्रकाशकः-
डॉ० हरिश्चन्द्रमणित्रिपाठी
निदेशकः, प्रकाशनसंस्थानत्य
सम्पूर्णानन्द-संस्कृत-विश्वविद्यालये
वाराणसी-२२१ ००२
(1
प्राप्तिस्थानय्-
विक्रय-विभागः,
सम्पूणनिन्द-संस्कृत-विश्वविद्यालयस्य
वाराणसी -२२१ ००२
h
प्रथमं संस्करणम्, ५०० प्रतिरूपाणि
मूल्यम्- ६००.०० रूप्यकाणि
(_]
मुद्रकः--
आनन्द प्रिंटिंग प्रेस
सी. २७/१७०-ए, जगतगंज
वाराणसी - २२१ ००२
प्रस्तावना
इदं हि महसठ्रमोदास्पदं स्थानं यत् साम्प्रतं द्वितीयभागात्मकस्य “कातन्त्र-
व्याकरणस्य? द्वितीयः खण्डः प्राकाश्यं यातीति । व्याकरणमिदं विविधैष्टीकाभिः
परिशिष्टादिभिश्च समळङ्कृत्य सम्पादितं डॉ० जानकीप्रसाददिवेदिमहोदयेन |
व्याकरणस्यैतस्य द्वौ भागौ पूर्वमेव विश्वविद्यालयादस्मात् प्रकाशितौ ।
सम्पूर्णनन्दसंस्कृतविश्वविद्यालयोऽयं के्द्रस्थानं सकलानां शास्त्राणां प्राच्यभारतीय-
विद्यानां हस्तलिखितपाण्डुलिपिग्रन्थानाञ्च । पारेलक्षं हस्तलिखितपाण्डुलिपिग्रन्थाः
सङ्गृहीताः सन्तो राजन्ते विश्वविद्यालयस्य सरस्वतीभवनाख्ये विश्वविख्याते
पुस्तकालये | जानन्त्येव विद्वांसो यत्तासां पाण्डुलिपीनां प्रकाशने सम्पादने
गवेषणे विश्लेषणे च सर्वात्मना सन्नद्धोऽयं विश्वविद्यालयः | अस्यामेव शृङ्घलायां
डॉ० द्विवेदिसम्पादितं कातन्त्रव्याकरणमपि प्रकाशपथातिधीभवति ।
पाणिनीयादिव्याकरणापेक्षया संक्षिप्तत्वात् कातन्त्राभिधानेन लोके यद्
विदितं व्याकरणं तदेव रचनाकारादिविविधाश्चयवशात् कलाप-कौमार-शार्ववर्मिकि-
दौर्गर्सिहीयनामभिर्व्यवहियते विदितवेदितव्यर्बुधैर्वैयाकरणैः। अर्थलाघवप्रधानमिदं
व्यःकरणं न केवलं भारते, अथ च तिब्बत-नेपाल-भूटान-श्रीलङ्कादिदेशान्तरेष्वपि
अध्ययनाध्यापनादिविधौ प्रवर्तितमभूत् । वङ्ग-उत्कल-शारदालिपिमयैर्हस्तलेखैः,
द्वादशग्रन्थानां भोटभाषानुवादेन, पञ्चविशतिभोटभाषाव्याख्याभिः, जैनाचार्यकृताष्टा-
विशतिरीकाभिः, विविधाचार्यकर्तृकवङ्गभाष्यटीकाटिप्पणीभिः, एतदाधारितबालशिक्षा-
गान्धर्वकलाप-कच्चायनादिव्याकरणैर्मुद्रितैश्चापि बहुनिर्ग्रन्थैरस्य समृद्धं वाङ्मयं वीक्ष्य
को नाम सुधीजनो महतीं मुदं नाप्नुयात् । दिगम्वरजैनमुनिर्वियानन्दः
कातन्त्रम् अधीयानः समीक्षमाणश्च ` स्वनामान्वर्थतां भजते | सुकृती मान्यो
वदान्यश्च स आचार्य-उमास्वामी-पुरस्कारेण कातन्त्रसिन्धुसम्मानोपाधिना च सम्पादकं
डॉ० जानकीप्रसाददिवेदं १४-३-९९ तमे दिनाङ्के दिल्ठीमहानगरे महता समारोहेण
सम्भूषितवानू । चतुर्दश्दलाईलामा श्रीतेनजिनग्यात्सोमहोदयो गुरुमुखादधीतं
कलापमद्यापि स्वकीयव्याख्यानेषु स्मरन्नास्ते । जैनमुनयो मन्यन्ते कातन्त्रकारमाचार्य-
शर्ववर्माणं दिगम्वरजैनमुनिम्, तस्मात् ते सर्वात्मना जैनव्याकरणमिदमुद्घोषयन्ति ।
(२)
अस्तु, अद्यत्वे जैनाचार्या जैनेन्द्रःशाकटायन-हैमव्याकरणापेक्षया, बौद्धाचार्याश्च
चान्द्रव्याकरणापेक्षया कातन्त्रै यदधिकं समाद्रियन्ते तेन कातन्त्रेऽस्ति सन्निहितं
शब्दानुशासनान्तरातिशायि किञ्चिद् वैशिष्ट्यवैभवमिति निश्चप्रचं वक्तुं शक्यते ।
व्याकरणं नाम स्मृतिः, स्मृतयश्च नियतकाला भवन्ति | एतेनाशास्यते
यन्नटराजराजमहेश््वरप्रवर्तितपाणिनीयव्याकरणसमनन्तरं स्वामिकार्त्तिकेयप्रवर्तितं
माहेन्द्रपरम्पराप्रतिनिधिप्रधानं कातन्त्रमिदं भूयस्त्वेन पृथिव्यां प्रचरेत् । संक्षेप-
सारल्यादिवैशिष्ट्यविभूषितमिदं व्याकरणं छान्दसान्, शास्त्रान्तररतान्, तृष्णादिसंसक्तान्
वणिजः, वाच्यनिरतान् ईश्वरान्, आठस्ययुतांश्चापि जिज्ञासून् स्वल्पसमये क्षिप्रप्रबोधेना-
तितरामुपकरोति | एतादृशीमस्य वैलक्षण्यपरम्परां मनसिकृत्य विश्वविद्यालयोऽयं
टीकाचतुष्टयसम्पादन-परिशिष्टसंयोजन-समीक्षासंवलितस्यास्य महतीं प्रकाशनयोजना-
मिमामङ्गीचकार । इतः पूर्व प्रथमो भागः, द्वितीयभागस्य प्रथमखण्डश्च प्रकाशितः
सँल्लोकार्पितोऽभूत् । द्वितीयभागस्य द्वितीयखण्डोऽयं कारक-समास-तद्धितविषय-
विवेचनपर उपयोगिताबाहुल्येन पूवपिक्षया महनीयं गौरवं बिभर्ति । उच्यते च
वाररुचसङ्ग्रहे कारकीयावबोधप्राधान्यविषये -
“प्रयोगमिच्छता ज्ञातुं ज्ञेयं कारकमादितः?। इति ।
सम्पादकः श्रीद्विवेदो न केवलं विषयमिममधिकृत्य बाचस्पति - (डी० लिट्०)
शोधोपाधिमधिगतवान् विश्वविद्यालयादस्मात्, अपि च स ततो निरन्तरमिदं महता
श्रमेण, यलेन चाधीयानो लेख-ग्रन्थमाध्यमेनास्य वाइमयश्रियं संवर्धितवान् । प्रकृते
खण्डे वृत्ति-टीका-विवरणपञ्जिका-कलापचन्द्रेति प्रख्यातरीकाचतुष्टयस्य वचन-
सन्दर्भादिनिर्देशपुरस्सरं वैज्ञानिक सम्पादनम्, पाणिनीयव्याकरणेन, प्रातिशाख्यैः,
बृहद्देवता-नाट्यशास्त्रादिभिः सह समीक्षात्मकमध्ययनं च प्रस्तुतमस्ति । सुदुस्तरे.
समीक्षाभागे शब्दरूपसिद्धिप्रक्रियाप्रदर्शनमपि महते उपकाराय प्रकल्पते ।
इदमपि ध्यातव्यं तथ्यमाभाति यट्टीकाचतुष्टयानन्तरं संयोजितेषु परिशिष्टेषु
कातन्त्रपरिशिष्ट-रूपसिद्धिशब्दोद्धृतश्लोकवचन-व्युतत्तिपरकशब्द-पारिमाशषबि्कद -
विशिष्टशब्द-ग्रन्थ-आचार्यनामावलीनामक्षरानुक्रमयोजनया कातन्त्रीय-मुद्रितग्रन्थ-
हस्तलेखानां संक्षिप्तपरिचयेन च विदुषां मनसि सन्तोषो भवेदेव | भूमिकाभागे
सम्पादकेन पाणिनीयव्याकरणापेक्षया कातन्त्रीयविध्यादिनिर्देशे साम्यम्, वैषम्यम्,
व्याख्याकाराणां सङ्ग्राह्माभिमतानि, केषाञ्चिद् वचनानां पक्षाणां वा सुखप्रतिपत्ति-
प्रपञ्च-वधारै्थ-चबालिावबतो ध्ादरय्थप-्रदलर्शकन-स्िद्षधान््तायदिसाूचकनवचनुसङ्रग्रोहश ्च
कृतः, तत्सर्वं सुखेन कातन्त्रीयविषयावबोधाय नूनमलं भवेत् ।
(३)
इदं नाविदितं कातन्त्रतत्त्वविदां विपश्चितां यदस्य मुद्रिता सामग्री नागराक्षरेषु
प्रायेण नगण्यैवास्ते, ततोऽधिका वज्ञाक्षरेषूपलभ्ण्ते, परं शताधिकवर्षपूर्व मुद्रितत्वात्
सा जीर्णप्रायैव काठिन्येन लभ्यते विपुला सामग्री व्याकरणस्यास्य वडु-शारदा-
उत्कल-भोटप्रभृतिलिपिषु निबद्धा तत्र तत्र सुरक्षिता5वलोक्यते । सम्पादकेन
ड द्विवेदेन प्रायेण सर्व एवैते हस्तलेखाः समये5 धीताआ सन् । यथास्थानमंशतस्तेषामुप-
योगोऽपि कृतः। प्रकीर्ण-दुरूह-महनीयकार्यस्यास्य समीचीनसम्पादनाय श्रीद्विवेद-
महोदयः प्रशंसामर्हति |आ शास्यते यद् अधिगतयाथातथ्या गुणैकपक्षपातिनो विद्वांसः
कार्यादस्मादवश्यं मुदिताः सन्तो लाभाच्विताः स्युरिति ।
प्रौढपाण्डित्यस्य समीक्षाशक्तेश्च समन्वयो बहुधा अङ्गुलिगणनीयेष्वाचार्येषु
समुपलभ्यते, तयोः सङ्गमो ग्रन्थेऽस्मिन् सर्वत्रैव द्रष्टं श्रक्यते । एतेन केचन
शिक्षका मन्यन्ते यत् कार्यमिदमितिहासनिर्माणकरमस्तीति, तस्मादत्र सम्पादकस्य
योगदानं निष्ठा श्रमः प्रयलश्च स्पष्टमनुमातुं शक्यते |
एवंविधं नानाटीका-व्याख्यासंवलितं “कातन्त्रव्याकरणम्’ संस्कृतवाङमयस्य
निधिभूतं विदुषां करकमळयोः समुपाहरन् नितरां मोमुदीति मे चेतः। अस्य
महनीयस्य ग्रन्थस्य सम्पादको डॉ०जानकीप्रसादद्विवेदिमहाशयो नितरां खाड्मयस्या-
स्योद्धारकः कामं निरतिशयप्रशंसार्हः | कातन्त्रव्याकरणस्य विश्लेषणे श्रीद्विवेदिना
व्यतीतानि बहूनि वर्षाणि । श्रीद्विवेदिमहोदयस्यैतादृशं सारस्वतकार्यं दर्शं दर्शमहं
धन्यवादैराशीर्वादैश्च संयोजयामि श्रीद्विवेदिमहोदयम् । ग्रन्थस्यास्य सौष्ठवपूर्ण-
प्रकाशने सन्नद्धाथ प्रकाशननिदेशकाय डॉ०हरिश्चन्द्रमणित्रिपाठिने, ईक्ष्यशोधकाय
डॉ० हरिवंशकुमारपाण्डेयाय, मुद्रकाय *आनन्द-प्रिटिग-ग्रेस-सञ्चालकाय श्रीदिवाकरत्रिपाठिने
च प्रभूतमाशीराशि वितरन्नहमत्यन्तं हर्षमनुभवामि | अन्ते च ग्रन्थमिमं सान्नपूर्णाय
श्रीकाशीविश्वेश्वराय समर्पयन् तं श्रीभवानीजानि प्रार्थये यद् ग्रन्थोऽयं पाठकानां
महते श्रेयसे स्यादिति |
I 5N Aम ी(~
I 58)
वाराणस्याम्
राममूर्तिशर्मा
आग्रहायणपूर्णिमायाम् , |
वि० सं० २०५६ ) Se कुलपतिः
(२२-१२-१९९९ ख्रैस्ताब्द: सम्पू्णनिन्दसंस्कृतविश्वविद्यालयस्य