Table Of Contentका
आचार्यशर्ववर्मप्रणीतं
प्रथमखण्डम्
व्याख्याचतुष्टयोपेतम्
कुलपतेः डॉ. मण्डनमिश्रस्य प्रस्तावनया समलङ्कुतम्
सम्पादकः
डॉ, जानकीप्रसादद्विवेदी
=
SARASVATIBHAVANA-GRANTHAMALA
[ Vol. 35 ] |
KATANTRAVYAKARANA
१ १ N हैहच ै N
OF
ACARYA SARVAVARMA
[ PART - TWO]
( VOLUME -)
With four Commentaries
VRTIT & TIKA’
By
SRI DURGA SINGH
‘KATANTRAVRTTIPANJIKA’
By
SRI TRILOCANADASA
‘KALAPACANDRA’
By
KAVIRAJA SUSENASARMA
‘SAMIKSA’
By Editor
FOREWORD BY
DR. MANDAN MISHRA
VICE-CHANCELLOR
EDITED BY
DR. JANAKIPRASADA DWIVEDI
Reader, Sanskrit Department
Central Institute of Higher Tibetan Studies
(Deemed University)
Sarnath, Varanasi
VARANASI
]998
Research Publication Supervisor ---
Director, Research Institute
Sampurnanand Sanskrit University
Varanasi.
Published by —
Dr. Harish Chandra Mani Tripathi
Director, Publication Department
Sampurnanand Sanskrit University
Varanasi-22] 002
Available at —
Sales Department,
Sampurnanand Sanskrit University
Varanasi-22] 002
First Edition, 500 Copies
Price : Rs. 500.00
Printed by —
Anand Printing Press
C. 27/I70-A, Jagatgan],
Varanasi-22] 002
सरस्वतीभवन-ग्रन्थमाला
[ १३५ ]
आचार्यशर्ववर्मप्रणीतं
कातन्त्रव्याकरणम्
(द ितीयो भागः)
[प ्रथमखण्डम् ]
श्रीदुर्गसिहकृताभ्यां कातन्त्रवृत्ति-टीकाभ्यां
श्रीमत्त्रिलोचनदासकृतया “कात्त्रवृत्तिपञ्जिका' -टीकया
कविराजसुषेणशर्मकृतया 'कलापचन्र'-टीकया
सम्पादकीयसमीक्षया
कुलपतेः डॉ०मण्डनमिश्रस्य प्रस्तावनया च समलङ्कृतम्
सम्पादकः
डॉ०जानकीप्रसाददिवेदः
उपाचार्यः, संस्कृतविभागे
केन्द्रीय-उच्चतिब्बतीशिक्षा-संस्थानम्
सारनाथः, वाराणसी
वाराणस्याम्
२०५५ तमे वैक्रमाब्दे १९२० तमे शकाब्दे १९९८ तमे खैस्ताब्दे
अनुसन्धानप्रकाशनपर्यवेक्षकः -
निदेशकः, अनुसन्धानसंस्थानस्य
सम्पूणनिन्द-संस्कृत-विश्वविद्याल्ये
वाराणसी ।
)
प्रकाशक: -
डॉ ० हरिश्चन्रमणित्रिपाठी
निदेशकः, प्रकाशनवि भागस्य
सम्पूर्णनिन्द-संस्कृत-विश्वविद्याल्ये
वाराणसी - २२१ ००२.
का
प्राप्तिस्थानम् -
विक्रय-विभागः,
सम्पूर्णनन्द-संस्कृत-विश्वविद्यालयस्य
वाराणसी - २२१ ००२.
प्रथमं संस्करणम्, ५०० प्रतिरूपाणि
मूल्यम् - ५००.०० रूप्यकाणि
E
मुद्रक: -
आनन्द प्रिंटिंग प्रेस
सी० २७/१७०-ए, जगतगंज
वाराणसी - २२१ ००२
प्रस्तावना
अपवर्गस्य द्वारं वाइमलानां चिकित्सितं च व्याकरणं शब्दानुशासनानुरागिणे
कस्मै सचेतसे न रोचेत | तत्र माहेन्द्रीं परम्परामधिकृत्य प्रवर्तिते *मोदकं देहि’
इति वचनाश्रिते कातन्त्रव्याकरणे मूलभूतानि सन्ति त्रीणि प्रकरणानि । मा + उदकम्'
इति पदच्छेदेनोपछक्षितं प्रथमं सन्धिप्रकरणम्, मोदकम्” इति स्याद्यन्तपदेन संकेतितं
द्वितीयं नामचतुष्टयप्रकरणम्, 'देहि' इति क्रियापदेनोद्दिष्टं तृतीयमाख्यातप्रकरणं चेति |
तत्र सार्धचतुष्टयशतपृष्ठामकः सन्धिप्रकरणाकः प्रथमो भाग: १९९७ तमे
यीशवीये वर्षे विशवविद्यालयेनानेन प्रकाशितः, यस्य लोकार्पणं २९.३.९८ तमे
दिनाङ्के उत्तरप्रदेशीयोच्चशिक्षामन्त्रिणा माननीयश्रीनरेन्द्रकुमारसिहगौर-
महोदयेनानुष्ठितम् ।भ ागस्यास्य विस्तरेण समीक्षा 'प्राकृतविद्या'- पत्रिकायां (व० १०
अं० १, पृ० ८८- ९०) डॉ० सुदीपजैनमहोदयेन समाचरिता ।स ः सम्पादकस्याद्भुतं
कार्यमिदमितिहासनिर्माणकरं मनुते ।त त्र परमं प्रमोदास्पदमेतद् यत् 'श्रीकुन्दकुन्द-
भारतीट्रस्ट' - नाम्नी दिल्लीस्था जैनसंस्था संस्कृतभाषासाहित्ययोर्महनीयमवदानं
तत्रापि च कातन््रव्याकरणस्य सम्पादनसमीक्षासंवलितं विशिष्टं कार्य परिलक्ष्य
सम्पादकाय डॉ० द्विवेदाय आचार्य - उमास्वामिपुरस्कारमुद्घोषितवती |
पकाशनसौविध्यधिया नामचतुष्टयात्मके द्वितीये भागे खण्डद्वयं परिकल्पितम् |
तत्र प्रथमे खण्डेऽस्मिन् नामचतुष्टयप्रकरणस्य प्राथमिकं पादत्रितयमेव सङ्गृहीतम् |
अवशिष्टं चतुर्थं कारकप्रकरणं पञ्चमं समासप्रकरणं षष्ठं तद्धितप्रकरणं च द्वितीये
खण्डे समावेशार्हमस्ति ।अ त्र प्रथमे खण्डे २०६ सूत्राणां दुर्गसिंहीयवृत्तेः, दुर्गटीकायाः,
त्रिलोचनदासकृताया विवरणपञ्जिकायाः, सुषेणविद्याभूषणकृतस्य कलापचन्द्रस्य च
सम्पादनं सन्निहितमस्ति । व्याख्याचतुष्टयस्यास्येह तदेव स्थानमवगन्तव्यं यत्
पाणिनीयव्याकरणे भाष्य - काशिका - न्यास - पदमञ्जर्याख्यव्याख्यानानामुपकल्प्यते ।
सम्पादकस्य श्रीद्विवेदस्य प्रतिसूत्रं हिन्दीभाषायाम् अर्थनिर्देशः समीक्षा च व्याकरणस्या-
्यार्थतत्त्वाधिगमाय सौविध्यातिशयं वितरति । समीक्षायां प्रायेण पक्षत्रितयं
प्रदर्शितम् - १. पाणिनीयसूतरैः सह तुळनातमकाध्ययनेनोत्कर्षापकर्षविवेचनम्,
२ .व ्याख्याचतुष्टयव्याकरणान्तरीयविशिष्टविचारप्रवर्तनम्, ३. शब्दसाधुत्वप्रक्रियाप्रदर्शनं
चेति | गोपथब्राह्मण-बृहदूदेवता - ऋक्तन्त्र- अग्निपुराण - जैनेन्द्रव्याकरणादिभ्योऽपि
समाहता सामग्री शोधकार्यनिरतानां जिज्ञासुजनानां च महते उपकाराय प्रकल्पेत |
(ii)
‘कषिप्रं प्रबोधार्थमनेकार्थं कलापकम्? (व्याख्यानप्रक्रिया १।१५- १६) इति
आचार्यशशिदेवस्य समुद्धोषः कलापापरपर्यायस्य कातन्त्रस्य नूनं सरलतां संक्षिप्ततां
चावबोधयति । एतेनैवानन्यसुलभेन वैशिष्ट्येन व्याकरणमिदं कश्मीर - राजस्थान-
वड़ादिप्रदेशेष॒ नेपाल - भूटान - तिब्बत - मङ्गोलिया - श्रीलङ्लादिदेशेषु चाध्ययनाध्या-
पनादौ पर्याप्तं प्रतिष्ठितं बभूव | अस्य मुद्रिता सामग्री नागराक्षरेषु प्रायेण
नगण्यैवास्ते, ततोऽधिका वद्गाक्षरेषूपलभ्यते, परं शताधिकवर्षपूर्वं मुद्रितत्वात्
सा जीर्णप्रायैव काठिन्येन प्राप्यते । विपुला सामग्री व्याकरणस्यास्य वङ्ग - शारदा -
उत्कल - भोटप्रभृतिलिपिषु निबद्धा तत्र तत्र सुरक्षिताऽवलोक्यते । सम्पादकेन
डॉ० द्विवेदेन प्रायेण सर्व एवैते हस्तलेखाः समयेऽधीता आसन्, यथास्थानमंशतस्तेषा-
मुपयोगोऽपि कृतः । तिब्बतदेशे कदाचिदस्यैव प्राधान्येनाध्ययनादिकं प्रवृत्तमासीदिति
द्वादशग्रन्थानां भोटभाषानुवादेन भोटभाषायां त्रयोविशतिव्याख्याप्रणयनेन चावगन्तुं
शक्यते । श्रीतेनजिनग्यात्सोनाम्ना प्रसिद्धेन चतुर्दशदलाईलामामहाभागेनेदं कलाप-
व्याकरणमधीतमासीदिति तेनेव' स्वयमुक्तं २१.१२ .९८ तमे दिनाङ्के सारनाथस्थे
तिब्बतीसंस्थाने प्रवर्तितव्याख्यानप्रसङ्घे ।
अत्र वझ्चाक्षरेषु शताधिकवर्षपूर्वं मुद्रितान् ग्रन्थानधिकृत्य सम्पादनकार्य
प्रवृत्तमस्ति । अस्मिन् सम्पादनकार्ये विविधग्रन्थानां सन्दर्भसम्पूरणेन सौष्ठवं किमपि
संवर्धितम् । कातन्त्रपरिशिष्ट - विशिष्टशब्द - व्युत्ादितशब्दादीनां परिशिष्टे:
शोधकार्यसौविध्यमारचितम् ।ए तेन मन्ये, शास्त्रान्तरेषु निरतैर्लोकयात्रादिषु स्थितेश्चापि
जनैरल्पीयसा कालेन सुखेन च कातन्त्रव्याकरणज्ञानं कर्तु शक्यते |म हनीयस्यास्य
कार्यस्य महता श्रमेण मनोयोगेन च सम्पादनकर्मणि समर्पितं डॉ० जानकीप्रसाद-
द्विवेदमहं सम्प्रीतः सन् विविधैराशीर्वचोभिरभ्युदयेन योजये | इदमाशास्यते आशंस्यते
चापि यत् सङ्कल्पितस्य समग्रस्यैव कार्यस्य सम्पादनं प्रकाशनं चाशु सम्पद्येतेति।
अन्ते च ग्रन्थस्यास्य सौष्ठवपूर्वकप्रकाशनार्थं विश्वविद्यालयस्यास्य प्रकाशननिदेशकाय
डॉ० हरिभ्नन्द्रमणित्रिपाठिमहोदयाय, तत्सहायकाय डॉ० हरिवंशकुमारपाण्डेयाय ,
प्रकाशनविभागीयान्यसहयोगिभ्यः, मुद्रकाय “आनन्द-प्रिटिग-प्रेस' - यन्त्रालय-
सञ्चालकाय श्रीदिवाकरत्रिपाठिने च धन्यवादान् समर्पयन् ग्रन्थांममं पाठकेभ्यः
समुपहरामि । |
A“ 0 शि क
वाराणस्याम् 7 मण्डनमिश्रः
मार्गशीर्षपूर्णिमायाम् , कुलपतिः
वि० सं० २०५५ सम्पूर्णानन्दसंस्कृतविश्वविद्यालयस्य
॥ श्रीः।।
भूमिका
सन्धिप्रकरणे वर्णकार्य दर्शितम् । साम्प्रतं वर्णसमुदायरूपस्याद्यन्तपदकार्य-
निरूपणमिष्यते । तदर्थं कातन्त्रे नामचतुष्टयप्रकरणं प्रारब्धम्, तत्र सन्ति षट् पादाः |
प्राथमिके पादत्रितये षड्लिङ्गविषयो विवेचितः, तस्यैव किञ्चिद् वैशिष्ट्यमिह द्वितीय
भागस्य प्रथमखण्डात्मके ग्रन्थे वक्ष्यते |न ामचतुष्टयस्य चतुर्थपादे कारकम्, पञ्चमे
समासः, षष्ठे च पादे तद्धितः संगृहीतः | एतत्पादत्रितयस्य समावेशो द्वितीयभागस्य
द्वितीयखण्डात्मके ग्रन्थै सुनिश्चितः इति वेदितव्यम् |
नामचतुष्टयाध्याये प्रायेण त्रिविधं विधानमवलोक्यते - किञ्चित् पाणिनीय-
व्याकरणेन प्रायेण साम्यं भजते, किञ्चित् सर्वथा नवीनमेव वर्तते यत् पाणिनीये
नावेक्ष्यते, किञ्चिच्चैतादृशमस्ति यत् पाणिनीये भिन्नरूपमालक्ष्यते |त द् यथा
नवीना योजना -
१ . नित्यस्त्रीलिङ्गवाचिनाम् आकारान्तशब्दानां श्रद्धासंज्ञा- “आ श्रद्धा”
(२ ।१।१०) | श्रद्धासंज्ञकेभ्यः शब्देभ्यः परस्य सिप्रत्ययस्य लोपे सति “श्रद्धा - माला’
प्रभृतीनि शब्दरूपाणि निष्पद्यन्ते - “*श्रद्धायाः सिर्लोपम्’? (२।१।३७) इति ।प ाणिनीये
संज्ञेयं नेव समादृता |
२. लिङ्गस्य धातोर्वा अन्त्यव्यञ्जनात् पूर्ववर्तिनो नकास्यानुषङ्गसंज्ञा -
''व्यज्जनान्नोऽनुषङ्गः’? (२।१।१२) इति । `विद्वन्स् -स ्रन्स्' प्रभृतिशब्देभ्योऽनुषङ्ग-
संज्ञकस्य नकारस्य “' अनुषङ्गश्चाङ्कुञ्चेत्”' (२।२।३९) इत्यनेन लोपे कृते सति
'विदुषः, स्रस्यते’ इत्यादिरूपाणि साधूनि भवन्ति | पाणिनिना नेयं संज्ञा विहिता, परं
ूर्वाचार्यकृतत्वादेषा महाभाष्यदीपिकाकारेण न्यासकारेण च स्मर्यते - “पूर्बाचार्यसंज्ेयं
नकारस्य”? (म० भा० दी०, पृ० १३४) । 'नकारस्योपधाया अनुषङ्ग इति पूर्वाचार्यैः
संज्ञा कृता? (न्या० १।१।४७) इति |
२ कातन्त्रव्याकरणम्
३ . श्रद्धासंज्ञकेभ्यः शब्देभ्यः परवर्तिनां 'हे - ङसि - ङस् - ङि” इत्येतेषां प्रत्ययानां
स्थाने क्रमेण “यै - यास् - यास् - याम्” इत्येते आदेशाः ““इबन्ति यै- य ास् - यास् - याम्’?
(२।१।४२) इति ।एतेन 'श्रद्धायै -श ्रद्धायाः- श्रद्धायाः- श्रद्धायाम् । मालायै - मालायाः-
मालायाः- माळायाम्' प्रभृतीनि शब्दरूपाणि सारल्येन निष्पद्यन्ते |प ाणिनीये याडागम -
वृद्धि - सवर्णदीर्घरेतानि साध्यन्ते ।
४. श्रद्धासंज्ञकेभ्यः सर्वनामशब्देभ्यः समागतानां इवतां प्रत्ययानां यथासंख्यं
'यै-यास् - यास् - याम्” इत्येते आदेशा हस्वपूर्वाः सुना सह भवन्ति - “ सर्वनाम्नस्तु
ससवो हस्वपूर्वाश्च”” (२।१।४३) | तेन- “सर्वस्यै - सर्वस्याः - सर्वस्याः - सर्वस्याम्”
इत्यादयः शब्दा लाघवेन सिध्यन्ति । पाणिनिना स्याडागम - वृद्धि - सवर्णदीर्धरेते
संसाधिताः |
५. नदीसंज्ञकेभ्यः शब्देभ्यः परवर्तिनां वतां प्रत्ययानां स्थाने यथासंख्यम्
'ऐ-आस्-आस्- आम्’ इत्येते आदेशाः “नया ऐ- आसासाम्?' (२।१।४५) |
अनेन विधिना “नद्यै - नद्या:- नद्याः- नद्याम् ।व ध्वै - वध्वाः - वध्वाः - वध्वाम्” इत्यादीनि
रूपाणि लघुनोपायेन साध्यन्ते। पाणिनीये एतदर्थम् आडागम - वृद्धि - सवर्ण-
दीर्घविधयः समाद्रियन्ते ।
. ६. सिविभक्तिसहितयोस्त्वन्मदोर्युष्मदस्मदोश्च स्थाने यथासंख्यं 'त्वम् - अहम्?
इत्येतावादेशो - “'त्वमहं सौ सिविभक्त्योः? (२।३।१०)। अनेन निर्देशेन 'त्वम् -
अहम् - अतित्वम् - अत्यहम्? इत्यादिशब्दसाधने प्रक्रियालाघवमनुभूयते । एतदर्थ
पाणिनिना “त्वाहौ सौ” (अ० ७।२।९४) इत्यनेन 'युष्म्- अस ्म्’ - स्थाने 'त्व-
अह' आदेशौ, “शेषे लोप:” (अ० ७।२।९०) इत्यनेन 'अद्’ भागस्य लोपः,
“डेप्रथमयोरम्”” (अ० ७।१।२८) इत्यनेन सुप्रत्ययस्यामादेशश्च विधीयते ।त ेन तत्र
प्रक्रियागौरवं सन्निहितमेवास्ते ।
भिन्नरूपा विधयः
१. लिडूगसंज्ञा - “धातुविभक्तिवर्जमर्थवल्लिड्गम्”” (२।१।१)। पाणिनीया
प्रातिपदिकसंज्ञा तदर्थ प्रसिद्धि भजते । परं प्रातिपदिकसंज्ञा भवति महती संज्ञा